📚 Issue IV | Year II · December 2024 · pp. 56 - 63

देवालयवास्तुशास्त्रदृशा शिवलिङ्गलक्षणविमर्शः

कत
कंचन तिलवानी डॉ.उपेन्द्रभार्गवः
शोधार्थी (ज्योतिष विभाग) महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालय उज्जैन (मध्य प्रदेश)।
Sanskrit

Abstract

Sanskrit

प्रस्तुतशोधपत्रे शिवलिङ्गलक्षणविमर्शः कृतः। अत्र शिवलिङ्गस्य तात्त्विकं दार्शनिकं आगमिकं वास्तुशास्त्रीयस्वरूपं च सम्यक् विवेचितम् । शिवलिङ्गशब्दस्य व्युत्पत्तिः तस्य प्रतीकार्थः शिवतत्त्वेन सह अभेदसम्बन्धः पुराणेषु प्रतिपादितं लिङ्गमहत्त्वं च निरूपितम्। एतदर्थं लिङ्गपुराणस्कन्दपुराणयोः वास्तुग्रन्थेषु च वर्णितानां विविधलिङ्गभेदानां तेषामाकारप्रमाणानां निर्माणविधेः स्थापत्यनियमानां च विशदं प्रतिपादनम् अत्र दृश्यते। शिवलिङ्गस्य निष्कलसकलमिश्ररूपाणां व्याख्यया सह प्रतिमाशास्त्रीयविवेचनं कृतम्। प्रतिमानिर्माणार्थं शिलालक्षणवर्णभेदलिङ्गलक्षणलिङ्गस्थानादीनां लिङ्गस्थापनफलादीनामप्यध्ययनं समाविष्टम्। शिवलिङ्गं ब्रह्माण्डीयसृष्टितत्त्वस्य शिवस्य निराकारब्रह्मस्वरूपस्य भारतीय स्थापत्यपरम्परायाश्च गूढप्रतीकमस्ति।

Keywords

शिवलिङ्गम् लिङ्गलक्षणम् प्रतिमालक्षणम् शिवतत्त्वम् स्वयम्भूलिङ्गम् लिङ्गभेदाः शिलालक्षणम् मयमतम् अपराजितपृच्छा स्थापत्यम् अवन्तिखण्डः आगमशास्त्रम् वायुसंहिता वास्तुशास्त्रम्।

Paper Details

Issue
Issue IV | Year II
Published
December 2024
Pages
pp. 56 - 63
Language
Sanskrit
ISSN
3048-6319 (Online)
Publisher
Baraudi Sanskriti Sanskrit Sanskar Shiksha Samiti

How to Cite

कंचन तिलवानी डॉ.उपेन्द्रभार्गवः. "देवालयवास्तुशास्त्रदृशा शिवलिङ्गलक्षणविमर्शः." Bundelkhand Vimarsh, Issue IV | Year II (December 2024), pp. 56 - 63. ISSN: 3048-6319.