📚 Issue IV | Year II · December 2024 · pp. 47 - 50

छात्राणां बौद्धिकविकासे तन्त्रयुक्तीनां प्रभावः

सख
सस्मिता खण्डुआल
डए
डॉ. एस.एल. सीताराम शर्मा
Sanskrit

Abstract

Sanskrit

विविधेषु जीवेषु मानवो बुद्धिकारणादेव श्रेष्ठो मन्यते । बुद्धिरेव मानवं पशुभ्यः पृथक्करोति । मानवस्य अनन्यायाः एतास्याः योग्यतायाः विषये परिज्ञानस्य प्रयासाः आदिकालात् प्रचलिताः वर्तन्ते । विश्ववाङ्मयेषु पुरातने भारतीयवाङ्मयेऽपि बुद्धिसन्दर्भे प्रभूतो विचारः प्रस्तुतो वतते। भारतीयदर्शने बुद्धिः प्रकृतेर्विकासस्य प्रथमं चरणं महत्तत्त्वरूपेण निरूपिता वर्तते । महत्तत्त्वे बुद्धिरहङ्‌कारमनस्तत्त्वानि निहितानि सन्ति । महत्तत्त्वमेव मनोविकासरूपा बुद्धिरिति कथ्यते। बुद्धौ स्मृतिसंस्कारौ विद्येते। बुद्धिरन्तःकरणस्याङ्गरूपेणापि मन्यते। एषा सङ्कल्पविकल्पात्मिकशक्तिरूपेणापि वर्णिता वर्तते । इयमेव निश्चयात्मिकाशक्तिरपि कथिता वर्तते। व्यवहाराध्ययनसन्दर्भे बुद्धिः अनन्ययोग्यतारूपेण मन्यते । एषा वैयक्तिकभिन्नतायाः कारणभूता वर्तते । मनोवैज्ञानिकाः बुद्धेर्व्याख्याप्रयासे एतस्याः सम्बन्धं शिक्षणेन, अधिगमेन व्यक्तित्वेन च स्वीकुर्वन्ति । व्यक्तेः भौतिकं, सामाजिकं, सांस्कृतिकञ्च परिवेशं तस्य बुद्धिं पोषयति। एवं स्वकीयस्य विकासस्य विविधासु शैशवबाल्याद्यवस्थासु जनाः अधिगमस्य कौशलस्य चार्जनं कुर्वन्ति ।

Keywords

बुद्धिः विश्ववाङ्मयम् पुरातनभारतीयवाङ्मयम् भारतीयदर्शनम् महत्तत्त्वम् बुद्धिरहङ्‌कारमनस्तत्त्वानि मनोविकासः स्मृतिसंस्कारौ अन्तःकरणस्म् निश्चयात्मिकाशक्तिः सात्त्विकी राजसी तामसी आदिशङ्कराचार्यपादाः विवेकः ।

Paper Details

Issue
Issue IV | Year II
Published
December 2024
Pages
pp. 47 - 50
Language
Sanskrit
ISSN
3048-6319 (Online)
Publisher
Baraudi Sanskriti Sanskrit Sanskar Shiksha Samiti

How to Cite

सस्मिता खण्डुआल, डॉ. एस.एल. सीताराम शर्मा. "छात्राणां बौद्धिकविकासे तन्त्रयुक्तीनां प्रभावः." Bundelkhand Vimarsh, Issue IV | Year II (December 2024), pp. 47 - 50. ISSN: 3048-6319.