📚 Issue VII | Year III · December 2026 · pp. 1-6

मानवस्वास्थ्याय ज्यौतिश्शास्त्रम्

डक
डा. के. नारायणः
सनातनधर्म कॉलेज
Sanskrit

Abstract

Sanskrit

दुःखस्य हेतुः कः? तत्परिहारोऽस्ति वा? अस्ति चेत् कः? मनुष्याणां रोगविषये शारीरिकं सामर्थ्य एकमेव आधुनिकशास्त्रद्वारा ज्ञातुं शक्यते। सामर्थ्याभावे च औषधप्रयोग एक एव दृष्टपरिहारः। तत्रापि औषधप्रयोगः सफलो भवेद्वा न वेति जिज्ञासा वैद्यकैः शमयितुं न शक्यते । बहुद्रव्यसाध्या चिकित्साऽपि वन्ध्या भवितुमर्हति । एवञ्च रोगसम्बन्धिनः सुखस्य दृष्टादृष्टोभयात्मकं प्रतिबन्धकत्रयं अङ्गीकरणीयम्। तत्र दृष्टप्रतिबन्धः औषधशात्रेण, अदृष्टप्रतिबन्धः ज्यौतिषादि शास्त्रेण, उभयात्मकप्रतिबन्धः उभाभ्यां च अतिलङ्घनीयः । अतिलङ्घनमसाध्यं चेत् तदपि ज्ञातव्यं प्रागेव, आयासो व्यर्थो मा भूदिति । सुखं प्रति आशा वा परिहर्तव्या। आशां प्रति विमुखीभावस्तु वेदान्तिभिरपि न सुशक्यः । किञ्च असौ निवृत्तिमार्गः न लौकिकानाम् । प्रवृत्तिमार्गिणां "जिजीविषेत् शतं समाः" इत्युपदेश एव सुग्रहः । तथा किञ्चिदत्र विचार्यते ।

Keywords

मानवस्वास्थ्यम् ज्यौतिषम् पुरुषार्थाः मोक्षः मुहूर्तम् वेदाङ्गम् ।

Paper Details

Issue
Issue VII | Year III
Published
December 2026
Pages
pp. 1-6
Language
Sanskrit
ISSN
3048-6319 (Online)
Publisher
Baraudi Sanskriti Sanskrit Sanskar Shiksha Samiti

How to Cite

डा. के. नारायणः. "मानवस्वास्थ्याय ज्यौतिश्शास्त्रम्." Bundelkhand Vimarsh, Issue VII | Year III (December 2026), pp. 1-6. ISSN: 3048-6319.