मानवस्वास्थ्याय ज्यौतिश्शास्त्रम्
Abstract
Sanskritदुःखस्य हेतुः कः? तत्परिहारोऽस्ति वा? अस्ति चेत् कः? मनुष्याणां रोगविषये शारीरिकं सामर्थ्य एकमेव आधुनिकशास्त्रद्वारा ज्ञातुं शक्यते। सामर्थ्याभावे च औषधप्रयोग एक एव दृष्टपरिहारः। तत्रापि औषधप्रयोगः सफलो भवेद्वा न वेति जिज्ञासा वैद्यकैः शमयितुं न शक्यते । बहुद्रव्यसाध्या चिकित्साऽपि वन्ध्या भवितुमर्हति । एवञ्च रोगसम्बन्धिनः सुखस्य दृष्टादृष्टोभयात्मकं प्रतिबन्धकत्रयं अङ्गीकरणीयम्। तत्र दृष्टप्रतिबन्धः औषधशात्रेण, अदृष्टप्रतिबन्धः ज्यौतिषादि शास्त्रेण, उभयात्मकप्रतिबन्धः उभाभ्यां च अतिलङ्घनीयः । अतिलङ्घनमसाध्यं चेत् तदपि ज्ञातव्यं प्रागेव, आयासो व्यर्थो मा भूदिति । सुखं प्रति आशा वा परिहर्तव्या। आशां प्रति विमुखीभावस्तु वेदान्तिभिरपि न सुशक्यः । किञ्च असौ निवृत्तिमार्गः न लौकिकानाम् । प्रवृत्तिमार्गिणां "जिजीविषेत् शतं समाः" इत्युपदेश एव सुग्रहः । तथा किञ्चिदत्र विचार्यते ।
