चार्वाकदर्शनं भारतीयज्ञानपरम्परा च एकं समीक्षणात्मकं विश्लेषणम्
Abstract
Sanskritचार्वाकदर्शनस्य मूलभूततत्त्वेषु प्रमुखं तत्त्वम् अस्ति प्रत्यक्षप्रमाणवादः। एषः सिद्धान्तः प्रतिपादयति यत्, यत् इन्द्रियैः प्रत्यक्षरूपेण ज्ञायते, तत् एव सत्यं, तदेव प्रमाणम्। अन्यानि प्रमाणानि — अनुमानम्, उपमानम्, शब्दः इत्यादयः मिथ्याप्रायाणि, भ्रमकारिणि च भवन्ति। चार्वाकाः वदन्ति यत् यावज्ज्ञानं प्रत्यक्षात् तावत्सत्यं न चान्यतः। इत्यनेन प्रत्यक्षज्ञानस्य एव सर्वश्रेष्ठत्वं तैः स्थिरीकृतम्। अनुमानं भ्रमजनकं, यतः अनुमानात् प्राप्तं ज्ञानं प्रमाणरहितं भवति। ते वदन्ति यत् अनुमानं तु सन्दिग्धं सप्रमेयं च निश्चयम्। शब्दप्रमाणं (शास्त्रवाक्यं, आप्तवचनं) अपि अस्वीक्रियते, यतः तेषां प्रमाणत्वे निश्चयः नास्ति। ते स्पष्टतया कथयन्ति न च शब्दं प्रमाणं स्यान्न हि तस्मादवाप्तये। अतः प्रत्यक्षमेव एकं प्रमाणं, अन्यं किञ्चन प्रमाणं नास्तीत्येषां मतम्। सर्वं ज्ञानं यथार्थतया ग्राह्यं भवति केवलं प्रत्यक्षेण। तदेव मूलं विज्ञानदृष्टेः अपि।
