📚 Issue VI | Year III · August 2025 · pp. 18–25

संस्कृतरूपकविमर्शः

डल
डॉ. ललित किशोर शर्मा
सहायकाचार्यः - संस्कृतसाहित्यविद्याशाखा
Sanskrit

Abstract

Sanskrit

संस्कृतसाहित्ये नाट्यम् अत्यन्तम् अभ्यर्हिततया उत्कृष्टतया च सर्वैः आचार्यैः एकस्वरेण इतरकाव्यविलक्षणम् अङ्गीकृतम्। काव्यं हि दृश्यश्रव्यभेदेन द्विधा भिद्यते। तत्र श्रव्यकाव्यभेदे महाकाव्यखण्डकाव्यादीनि आगच्छन्ति। दृश्यकाव्यभेदे तु नाट्यम् अन्तर्भवति। नाट्यं हि नटाश्रितं भवति। नट अवस्पन्दने इत्यस्मात् धातोः नटशब्दः नटति इति नटः इति कर्त्रर्थे निष्पन्नः। अवस्पन्दनम् इत्यत्रापि नटधातोः अवस्पन्दरूपे अर्थे ग्रहणीये आचार्यैः स्पदि किञ्चिच्चलने इति धातुपाठनिर्दिष्टस्य अर्थस्य साहाय्यकम् आश्रितम्। इत्थं किञ्चित् चलनविशिष्टः अभिनयः भावमनाश्रित्य निर्वोढुम् अशक्यक्रियः भवतीति भावमाश्रित्यैव कृतं किञ्चिच्चलनं कुर्वन् कर्ता नटः इति व्यपदिश्यते। तस्य कर्म च नाट्यं भवति। इत्थं नाट्ये भावस्य एव प्राधान्यम्। अत एव उक्तं दशरूपके अन्यत् 'दशधैव रसाश्रयमिति' अत्र नाट्यादीनां भावाश्रितत्वम् इत्यत्र भावशब्दः रसादिपर एव विवक्षितः। न तु बहुलाङ्गिकाभिनयपरः। तथात्वे नृत्ये लक्षणस्य अतिव्याप्तिः स्यात्।

Keywords

अवस्पन्दनम् नाट्यशास्त्रम् वचनविन्यासः विगलितवेद्यान्तरं पाठयमृग्वेदात् अनवद्या कविताकामिनीविलासः भवभूतिर्विशिष्यते।

Paper Details

Issue
Issue VI | Year III
Published
August 2025
Pages
pp. 18–25
Language
Sanskrit
ISSN
3048-6319 (Online)
Publisher
Baraudi Sanskriti Sanskrit Sanskar Shiksha Samiti

How to Cite

डॉ. ललित किशोर शर्मा. "संस्कृतरूपकविमर्शः." Bundelkhand Vimarsh, Issue VI | Year III (August 2025), pp. 18–25. ISSN: 3048-6319.