📚
Issue VI | Year III ·
August 2025 · pp. 1–8
ज्योतिषशास्त्रे ज्ञानमीमांसा
Abstract
Sanskritसर्वविदितमेव भारतीयविद्यासु ज्योतिषशास्त्रस्यातिमहत्वपूर्णस्थानमस्ति। भगवतो वेदस्य षट्स्वङ्गेषु ज्योतिषशास्त्रं नेत्रत्वेन विराजते। इदं शास्त्रम् प्राचीनाचार्यैः पराविद्यायाः श्रेयमग्रपंक्तौ सुप्रतिष्ठितम्। शास्त्रस्यास्य व्यापकत्वेन विज्ञायते यत् सम्प्रत्यस्मिन् वैज्ञानिकयुगेऽपि प्रचलितदूरदर्शनकेन्द्र- पत्रिकादिषु द्वादशराशीनां फलं दृश्यते। सर्वेऽपि जनाः ग्रहाणां फलस्य शुभाशुभत्वं विज्ञाय सुखदुःखादिकमनुभवन्ति। यथा ग्रहचारवशेन समाजे आर्थिककृषिवाणिज्यवृष्टिराजनीतिकसम्ब- न्धिविषयाणां ज्ञानं भवितुं शक्यते, तेनैव प्रकारेण ग्रहयुतिवशेन, युद्धवशेन, दृष्टिवशेन तथा अग्रतः पृष्ठतश्चरन्तो ग्रहैर्जगति परिवर्तनं भवति।
Keywords
भारतीयविद्या
ज्योतिषशास्त्रम्
वैज्ञानिकयुगम्
द्वादशराशयः
ग्रहाः
ग्रहचारः
ग्रहयुतिः
सिद्धान्तः
संहिता
फलितम्
मुहूर्तम्
उपनिषद्
गणितज्योतिषम्
आर्यभटः ।
Paper Details
How to Cite
डॉ. गणेशप्रसाद मिश्रः. "ज्योतिषशास्त्रे ज्ञानमीमांसा." Bundelkhand Vimarsh, Issue VI | Year III (August 2025), pp. 1–8. ISSN: 3048-6319.
